संदेश

उग्र नरसिंह मंत्र लेबल वाली पोस्ट दिखाई जा रही हैं

श्री उग्र नृसिंह स्तुति(Shri Ugra Narsimha Stuti)

चित्र
श्री उग्र नृसिंह स्तुति व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् | आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि || चञ्चच्चण्डनखाग्रभेदविहलद्दैत्येन्द्रवक्षः क्षर- द्रक्ताभ्यक्तसुपाटलोद्भटसदासंभ्रान्तभीमाननः | तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखर्वीभव- द्दिङ्मातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः || दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि स्फारीभूतकरालकेसरसटासङ्घातघोराकृतेः | सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्तः स्मितं क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् || सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये | नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ||