संदेश

माखन चरो लेबल वाली पोस्ट दिखाई जा रही हैं

अच्युतस्याष्टकम् -Achyutastakam

चित्र
।। अच्युतस्याष्टक म्  ।। अच्युतं केशवं रामनारायणं कृष्णदामॊदरं वासुदॆवं हरिम् । श्रीधरं माधवं गॊपिका वल्लभं जानकीनायकं रामचन्द्रं भजे ॥ 1 ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधॆ ॥ 2 ॥ विष्णवे जिष्णवे शङ्कने चक्रिणे रुक्मिणी राहिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिनॆ वंशिनॆ तॆ नमः ॥ 3 ॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधेक्षज द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥ राक्षस क्षौभितः सीतया शेभितो दण्डकारण्यभू पुण्यताकारणः । लक्ष्मणौनान्वितौ वानरै: सेवितो अगस्त्य सम्पूजितॊ राघवः पातु माम् ॥ 5 ॥ धेनुकारिष्टका‌निष्टिकृद्-द्वेषिहा केशिहा कंसहृद्-वंशिकावादकः । पूतनाकोपकः सूरजाखेलनरो बालहोपालकः पातु मां सर्वदा ॥ 6 ॥ बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं प्रावृडम्-भौरदवत्-प्रौल्लसद्-विग्रहम् । वान्यया मालया शौभितौरः स्थलं लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ 7 ॥ कुञ्चितैः कुन्तलै भ्राजमानाननं रत्नमौलिं लसत्-कुण्डलं