संदेश

Sree Lalita Sahasra Namavali लेबल वाली पोस्ट दिखाई जा रही हैं

श्री ललिता सहस्रनामावली - Sree Lalita Sahasra Namavali

चित्र
॥ ध्यानम् ॥ सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ ॥अथ श्री ललिता सहस्रनामावली ॥ ॐ ॐ ऐं ह्रीं श्रीं श्रीमात्रे नमः । ॐ श्रीमहाराज्ञै नमः । ॐ श्रीमत्सिंहासनेश्वर्यै नमः । ॐ चिदग्निकुण्डसम्भूतायै नमः । ॐ देवकार्यसमुद्यतायै नमः । ॐ ॐ उद्यद्भानुसहस्राभायै नमः । ॐ चतुर्बाहुसमन्वितायै नमः । ॐ रागस्वरूपपाशाढ्यायै नमः । ॐ क्रोधाकाराङ्क