संदेश

Durga Stotram लेबल वाली पोस्ट दिखाई जा रही हैं

नव दुर्गा स्त्रोत्रम् (Nav Durga Stotram)

चित्र
।। नव दुर्गा स्त्रोत्रम् ।। ॥  गणेशः  ॥ हरिद्राभञ्चतुर्वादु हारिद्रवसनंविभुम् ।  पाशाङ्कुशधरं दैवंमोदकन्दन्तमेव च ॥ ॥  देवी शैलपुत्री  ॥ वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखरां।  वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥ ॥ देवी ब्रह्मचारिणी  ॥ दधाना करपद्माभ्यामक्षमाला कमण्डलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ ॥  देवी चन्द्रघण्टेति  ॥ पिण्डजप्रवरारूढा चन्दकोपास्त्रकैर्युता । प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥ ॥  देवी कूष्माण्डा  ॥ सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥ ॥  देवीस्कन्दमाता  ॥ सिंहासनगता नित्यं पद्माश्रितकरद्वया । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥ ॥  देवीकात्यायणी  ॥ चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना । कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥ ॥  देवीकालरात्रि  ॥ एकवेणी जपाकर्णपूर नग्ना खरास्थिता । लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥ वामपादोल्लसल्लोहलताकण्टकभूषणा । वर्धनमूर्ध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥ ॥  द

दुर्गा स्तोत्रम् । देवी कीलकम् (Durga Stotram | Devi Keelakam)

चित्र
।। कीलकम् स्तोत्रम् ।। ॐ अस्य श्री कीलक स्तोत्र महा मन्त्रस्य । शिव ऋषिः । अनुष्टुप् छन्दः । महासरस्वती देवता । मन्त्रोदित देव्यो बीजम् । नवार्णो मन्त्रशक्ति । श्री सप्त शती मन्त्र स्तत्वं स्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वएन जपे विनियोगः । ।। ॐ नमश्चण्डिकायै      मार्कण्डेय उवाच  ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।   श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥१॥ सर्वमेत द्विजानीयान्मन्त्राणापि कीलकम् ।   सोऽपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥२॥ सिद्ध्यन्तुच्चाटनादीनि कर्माणि सकलान्यपि ।   एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ॥३॥ न मन्त्रो नौषधं तस्य न किञ्चि दपि विध्यते ।   विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ॥४॥ समग्राण्यपि सेत्स्यन्ति लोकशज्ञ्का मिमां हरः ।   कृत्वा निमन्त्रयामास सर्व मेव मिदं शुभम् ॥५॥ स्तोत्रंवै चण्डिकायास्तु तच्च गुह्यं चकार सः ।   समाप्नोति सपुण्येन तां यथावन्निमन्त्रणां ॥६॥ सोपिऽक्षेम मवाप्नोति सर्व मेव न संशयः ।   कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ॥७॥