संदेश

Shri Ganesh Sankat Nasan stotram लेबल वाली पोस्ट दिखाई जा रही हैं

श्री गणेश संकटनाशन स्तोत्रम् - Shri Ganesh Sankat Nasan stotram

चित्र
।। श्री गणेश संकटनाशन स्तोत्र म्  ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥ लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजम् च धूम्रवर्णं तथाष्टमम् ॥३॥ नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥  द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभुः ॥५॥  विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥  जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्। संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥ अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत। तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥ ॐ गं गणपतये नमः ॥ श्री सिद्धिविनायक नमो नमः ॥ अष्टविनायक नमो नमः ॥ गणपति बाप्पा मोरया ॥ मंगल मूर्ति मोरया ॥ ।। इति गणेश संकटनाशन स्तोत्रम् सम्पूर्णम् ।।