अच्युतस्याष्टकम् -Achyutastakam


।। अच्युतस्याष्टकम् ।।

अच्युतं केशवं रामनारायणं कृष्णदामॊदरं वासुदॆवं हरिम् ।
श्रीधरं माधवं गॊपिका वल्लभं जानकीनायकं रामचन्द्रं भजे ॥ 1 ॥

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधॆ ॥ 2 ॥

विष्णवे जिष्णवे शङ्कने चक्रिणे रुक्मिणी राहिणे जानकी जानये ।
वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिनॆ वंशिनॆ तॆ नमः ॥ 3 ॥

कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधेक्षज द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥

राक्षस क्षौभितः सीतया शेभितो दण्डकारण्यभू पुण्यताकारणः ।
लक्ष्मणौनान्वितौ वानरै: सेवितो अगस्त्य सम्पूजितॊ राघवः पातु माम् ॥ 5 ॥

धेनुकारिष्टका‌निष्टिकृद्-द्वेषिहा केशिहा कंसहृद्-वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनरो बालहोपालकः पातु मां सर्वदा ॥ 6 ॥

बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं प्रावृडम्-भौरदवत्-प्रौल्लसद्-विग्रहम् ।
वान्यया मालया शौभितौरः स्थलं लोहिताङ्-घिद्वयं वारिजाक्षं भजे ॥ 7 ॥

कुञ्चितैः कुन्तलै भ्राजमानाननं रत्नमौलिं लसत्-कुण्डलं गण्डयो: ।
हारकेयूरकं कङ्कण प्रोज्ज्वलं किङ्किणी मञ्जुलं श्यामलं तं भजॆ ॥ 8 ॥

अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृ विश्वम्भरः तस्य वश्यो हरि र्जायते सत्वरम् ॥

।। इति शन्कराचार्य अच्युतस्याष्टकं सम्पूर्णम्।।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Vishnu Ji ke 108 Name || विष्णुजी के 108 नाम

श्री सरस्वती स्तुती - Shri Saraswati Stuti

महाकाल भैरव स्तोत्रम् (Mahakaal Bhairav Stotram)